निष्ठान्तं द्व्यच् संज्ञायां विषये आद्युदात्तं भवति स चेदादिराकारो न भवति। दत्तः। गुप्तः। बुद्धः। प्रत्ययस्वरापवादः। निष्ठा इति किम्? देवः। भीमः। द्व्यचिति किम्? चिन्तितः। रक्षितः। अनातिति किम्? त्रातः। आप्तः। संज्ञायाम् इति किम्? कृतम्। हृतम्।
"गुप्तः" इति "गुपू रक्षणे" (धा।पा।३९५)। "बुद्धः" इति। "बुध अवगमने" (धा।पा।८५८)। "देवः" इति। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः।
भीमशब्दोऽपि मगन्तत्वात्? प्रत्यस्वरेण। "इषियुधि" (द।उ।७।३१) इत्याद्यधिकृत्य "भियः षुग्वा" (द।उ।७।३५) इति मक्प्रत्ययान्तो व्युत्पाद्यते। "चिन्तितः" इति। "चिति स्मृत्याम्()" (धा।पा।१५३५), चौरादिकः, "निष्ठायां सेटि"
६।४।५२ इति णिलोपः। "रक्षितः" इति। "रक्ष पालने" (धा।पा।६५८)। "त्रातः, आप्तः" इति। "त्रैङ पालने" (धा।पा।९६५), "आप्लृ व्यातौ" (धा।पा।१२६०)॥